HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः ।तान्निबोधत कार्त्स्न्येन द्विजाग्र्यान्पङ्क्तिपावनान् 3/183
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः 3/184
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ।ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च 3/185
वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः ।शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः 3/186
पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते ।निमन्त्रयेत त्र्यवरान्सम्यग्विप्रान्यथोदितान् 3/187
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा ।न च छन्दांस्यधीयीत यस्य श्राद्धं च तद्भवेत् 3/188
निमन्त्रितान्हि पितर उपतिष्ठन्ति तान्द्विजान् ।वायुवच्चानुगच्छन्ति तथासीनानुपासते 3/189
केतितस्तु यथान्यायं हव्ये कव्ये द्विजोत्तमः ।कथं चिदप्यतिक्रामन्पापः सूकरतां व्रजेत् 3/190
आमन्त्रितस्तु यः श्राद्धे वृशल्या सह मोदते ।दातुर्यद्दुष्कृतं किं चित्तत्सर्वं प्रतिपद्यते 3/191
अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः 3/192