HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
अव्रतैर्यद्द्विजैर्भुक्तं परिवेत्रादिभिस्तथा ।अपाङ्क्तेयैर्यदन्यैश्च तद्वै रक्षांसि भुञ्जते 3/170
दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः 3/171
परिवित्तिः परिवेत्ता यया च परिविद्यते ।सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः 3/172
भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः ।धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः 3/173
परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः 3/174
तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च ।दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् 3/175
अपाङ्क्त्यो यावतः पङ्क्त्यान्भुञ्जानाननुपश्यति ।तावतां न फलं तत्र दाता प्राप्नोति बालिशः 3/176
वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु ।पापरोगी सहस्रस्य दातुर्नाशयते फलम् 3/177
यावतः संस्पृशेदङ्गैर्ब्राह्मणाञ् शूद्रयाजकः ।तावतां न भवेद्दातुः फलं दानस्य पौर्तिकम् 3/178
वेदविच्चापि विप्रोऽस्य लोभात्कृत्वा प्रतिग्रहम् ।विनाशं व्रजति क्षिप्रं आमपात्रं इवाम्भसि 3/179
सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ।नष्टं देवलके दत्तं अप्रतिष्ठं तु वार्धुषौ 3/180
यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् ।भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे 3/181
इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्वसाधुषु ।मेदोऽसृङ्मांसमज्जास्थि वदन्त्यन्नं मनीषिणः 3/182