HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् 3/122
पितॄणां मासिकं श्राद्धं अन्वाहार्यं विदुर्बुधाः ।तच्चामिषेणा कर्तव्यं प्रशस्तेन प्रयत्नतः 3/123
तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः ।यावन्तश्चैव यैश्चान्नैस्तान्प्रवक्ष्याम्यशेषतः 3/124
द्वौ दैवे पितृकार्ये त्रीनेकैकं उभयत्र वा ।भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे 3/125
सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदः ।पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरम् 3/126
प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये ।तस्मिन्युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी 3/127
श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् 3/128
एकैकं अपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।पुष्कलं फलं आप्नोति नामन्त्रज्ञान्बहूनपि 3/129
दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ।तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः 3/130
सहस्रं हि सहस्राणां अनृचां यत्र भुञ्जते ।एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति धर्मतः 3/131
ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च ।न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः 3/132
यावतो ग्रसते ग्रासान्हव्यकव्येष्वमन्त्रवित् ।तावतो ग्रसते प्रेतो दीप्तशूलर्ष्ट्ययोगुडान् 3/133
ज्ञाननिष्ठा द्विजाः के चित्तपोनिष्ठास्तथापरे ।तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथापरे 3/134
ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ।हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि 3/135
अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः ।अश्रोत्रियो वा पुत्रः स्यात्पिता स्याद्वेदपारगः 3/136
ज्यायांसं अनयोर्विद्याद्यस्य स्याच्छ्रोत्रियः पिता ।मन्त्रसंपूजनार्थं तु सत्कारं इतरोऽर्हति 3/137
न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः ।नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्द्विजम् 3/138
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च 3/139
यः संगतानि कुरुते मोहाच्छ्राद्धेन मानवः ।स स्वर्गाच्च्यवते लोकाच्छ्राद्धमित्रो द्विजाधमः 3/140
संभोजानि साभिहिता पैशाची दक्षिणा द्विजैः ।इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि 3/141
यथेरिणे बीजं उप्त्वा न वप्ता लभते फलम् ।तथानृचे हविर्दत्त्वा न दाता लभते फलम् 3/142
दातॄन्प्रतिग्रहीतॄंश्च कुरुते फलभागिनः ।विदुषे दक्षिणां दत्त्वा विधिवत्प्रेत्य चेह च 3/143
कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपं अपि त्वरिम् ।द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् 3/144
यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् ।शाखान्तगं अथाध्वर्युं छन्दोगं तु समाप्तिकम् 3/145
एषां अन्यतमो यस्य भुञ्जीत श्राद्धं अर्चितः ।पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी 3/146
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः 3/147
मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् ।दौहित्रं विट्पतिं बन्धुं ऋत्विग्याज्यौ च भोजयेत् 3/148
न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् ।पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः 3/149
ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः ।तान्हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् 3/150
जटिलं चानधीयानं दुर्बालं कितवं तथा ।याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् 3/151
चिकित्सकान्देवलकान्मांसविक्रयिणस्तथा ।विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः 3/152
प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः ।प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा 3/153
यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ।ब्रह्मद्विट्परिवित्तिश्च गणाभ्यन्तर एव च 3/154
कुशीलवोऽवकीर्णी च वृषलीपतिरेव च ।पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे 3/155
भृतकाध्यापको यश्च भृतकाध्यापितस्तथा ।शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ 3/156
अकारणे परित्यक्ता मातापित्रोर्गुरोस्तथा ।ब्राह्मैर्यौनैश्च संबन्धैः संयोगं पतितैर्गतः 3/157
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।समुद्रयायी बन्दी च तैलिकः कूटकारकः 3/158
पित्रा विवदमानश्च कितवो मद्यपस्तथा ।पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी 3/159
धनुःशराणां कर्ता च यश्चाग्रेदिधिषूपतिः ।मित्रध्रुग्द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च 3/160
भ्रामरी गन्डमाली च श्वित्र्यथो पिशुनस्तथा ।उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च 3/161
हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति ।पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च 3/162
स्रोतसां भेदको यश्च तेषां चावरणे रतः ।गृहसंवेशको दूतो वृक्षारोपक एव च 3/163
श्वक्रीडी श्येनजीवी च कन्यादूषक एव च ।हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः 3/164
आचारहीनः क्लीबश्च नित्यं याचनकस्तथा ।कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च 3/165
औरभ्रिको माहिषिकः परपूर्वापतिस्तथा ।प्रेतनिर्यापकश्चैव वर्जनीयाः प्रयत्नतः 3/166
एतान्विगर्हिताचारानपाङ्क्तेयान्द्विजाधमान् ।द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् 3/167
ब्राह्मणो त्वनधीयानस्तृणाग्निरिव शाम्यति ।तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते 3/168
अपाङ्क्तदाने यो दातुर्भवत्यूर्ध्वं फलोदयः ।दैवे हविषि पित्र्ये वा तं प्रवक्स्याम्यशेषतः 3/169