HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः ।।10/81
उभाभ्यां अप्यजीवंस्तु कथं स्यादिति चेद्भवेत् ।कृषिगोरक्षं आस्थाय जीवेद्वैश्यस्य जीविकाम् ।।10/82
वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्सत्रियोऽपि वा ।हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ।।10/83
कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिताः ।भूमिं भूमिशयांश्चैव हन्ति काष्ठं अयोमुखम् ।।10/84
इदं तु वृत्तिवैकल्यात्त्यजतो धर्मनैपुणम् ।विट्पण्यं उद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ।।10/85
सर्वान्रसानपोहेत कृतान्नं च तिलैः सह ।अश्मनो लवणं चैव पशवो ये च मानुषाः ।।10/86
सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च ।अपि चेत्स्युररक्तानि फलमूले तथौषधीः ।।10/87
अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः ।क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ।।10/88
आरण्यांश्च पशून्सर्वान्दंष्ट्रिणश्च वयांसि च ।मद्यं नीलिं च लाक्षां च सर्वांश्चैकशफांस्तथा ।।10/89
कामं उत्पाद्य कृष्यां तु स्वयं एव कृषीवलः ।विक्रीणीत तिलाञ् शूद्रान्धर्मार्थं अचिरस्थितान् ।।10/90
भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः ।कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ।।10/91
सद्यः पतति मांसेन लाक्षया लवणेन च ।त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ।।10/92
इतरेषां तु पण्यानां विक्रयादिह कामतः ।ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ।।10/93
रसा रसैर्निमातव्या न त्वेव लवणं रसैः ।कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ।।10/94