HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
अनन्तरासु जातानां विधिरेष सनातनः ।द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम् ।।10/7
ब्राह्मणाद्वैश्यकन्यायां अम्बष्ठो नाम जायते ।निषादः शूद्रकन्यायां यः पारशव उच्यते ।।10/8
क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान् ।क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते ।।10/9
विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः ।वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः ।।10/10
क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः ।वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ।।10/11
शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् ।वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः ।।10/12
एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ ।क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि ।।10/13
पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् ।ताननन्तरनाम्नस्तु मातृदोषात्प्रचक्षते ।।10/14
ब्राह्मणादुग्रकन्यायां आवृतो नाम जायते ।आभीरोऽम्बष्ठकन्यायां आयोगव्यां तु धिग्वणः ।।10/15
आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् ।प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः ।।10/16
वैश्यान्मागधवैदेहौ क्षत्रियात्सूत एव तु ।प्रतीपं एते जायन्ते परेऽप्यपसदास्त्रयः ।।10/17
जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः ।शूद्राज्जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ।।10/18
क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते ।वैदेहकेन त्वम्बष्ठ्यां उत्पन्नो वेण उच्यते ।।10/19
द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् ।तान्सावित्रीपरिभ्रष्टान्व्रात्यानिति विनिर्दिशेत् ।।10/20
व्रात्यात्तु जायते विप्रात्पापात्मा भूर्जकण्टकः ।आवन्त्यवाटधानौ च पुष्पधः शैख एव च ।।10/21
झल्लो मल्लश्च राजन्याद्व्रात्यान्निच्छिविरेव च ।नटश्च करणश्चैव खसो द्रविड एव च ।।10/22
वैश्यात्तु जायते व्रात्यात्सुधन्वाचार्य एव च ।कारुषश्च विजन्मा च मैत्रः सात्वत एव च ।।10/23