HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः ।।10/99
यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।तानि कारुककर्माणि शिल्पानि विविधानि च ।।10/100
वैश्यवृत्तिं अनातिष्ठन्ब्राह्मणः स्वे पथि स्थितः ।अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत् ।।10/101
सर्वतः प्रतिगृह्णीयाद्ब्राह्मणस्त्वनयं गतः ।पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते ।।10/102
नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् ।दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ।।10/103
जीवितात्ययं आपन्नो योऽन्नं अत्ति ततस्ततः ।आकाशं इव पङ्केन न स पापेन लिप्यते ।।10/104
अजीगर्तः सुतं हन्तुं उपासर्पद्बुभुक्षितः ।न चालिप्यत पापेन क्षुत्प्रतीकारं आचरन् ।।10/105
श्वमांसं इच्छनार्तोऽत्तुं धर्माधर्मविचक्षणः ।प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ।।10/106
भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने ।बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः ।।10/107
क्षुधार्तश्चात्तुं अभ्यागाद्विश्वामित्रः श्वजाघनीम् ।चण्डालहस्तादादाय धर्माधर्मविचक्षणः ।।10/108