HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः ।तस्मान्मेध्यतमं त्वस्य मुखं उक्तं स्वयंभुवा । ।1/92
उत्तमाङ्गोद्भवाज्ज्येष्ठ्याद्ब्रह्मणश्चैव धारणात् ।सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः । ।1/93
तं हि स्वयंभूः स्वादास्यात्तपस्तप्त्वादितोऽसृजत् ।हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये । ।1/94
यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः ।कव्यानि चैव पितरः किं भूतं अधिकं ततः । ।1/95
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः । ।1/96
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः । ।1/97
उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती ।स हि धर्मार्थं उत्पन्नो ब्रह्मभूयाय कल्पते । ।1/98
ब्राह्मणो जायमानो हि पृथिव्यां अधिजायते ।ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये । ।1/99
सर्वं स्वं ब्राह्मणस्येदं यत्किं चिज्जगतीगतम् ।श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति । ।1/100
स्वं एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः । ।1/101